GAJENDRA MOKSHA

श्री गजेन्द्र मोक्ष



श्री शुक उवाच

एवं व्यवसितो बुद्धयासमाधाय मनो हृदि ।

जजाप परमं जाप्यंप्राग्जन्मन्यनुशिक्षितम् ॥1॥

गजेन्द्र उवाच -

ॐ नमो भगवते तस्मै यतएतच्चिदात्मकम् ।

पुरुषायादिबीजायपरेशायाभिधीमहि ॥2॥

यस्मिन्निदं यतश्चेदंयेनेदं य इदं स्वयम्|

योऽस्मात्परस्माच्चपरस्तं प्रपद्ये स्वयम्भुवम्।।३।।

यः स्वात्मनीदंनिजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम्।

अविद्धदृक् साक्ष्युभयंतदीक्षते स आत्ममूलोऽवतु मां परात्परः।।४।।

कालेन पञ्चत्वमितेषुकृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु।

तमस्तदाऽऽसीद् गहनंगभीरं यस्तस्य पारेऽभिविराजते विभुः।।५।।

न यस्य देवा ऋषयः पदंविदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम्।

यथानटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु।।६।।

दिदृक्षवो यस्य पदंसुमंगलं विमुक्तसंगा मुनयः सुसाधवः।

चरन्त्यलोकव्रतमव्रणंवने भूतात्मभूताः सुहृदः स मे गतिः।।७।।

न विद्यते यस्य च जन्मकर्म वा न नामरुपे गुणदोष एव वा।

तथापि लोकाप्ययसम्भवाययः स्वमायया यः तान्यनुकालमृच्छति।।८।।

तस्मै नमः परेशायब्रह्मणेऽनन्तशक्तये।

अरुपायोरुरुपाय नमआश्चर्यकर्मणे।।९।।

नम आत्मप्रदीपायसाक्षिणे परमात्मने।

नमो गिरां विदूरायमनसश्चेतसामपि।।१०।।

सत्त्वेन प्रतिलभ्यायनैष्कर्म्येण विपश्विचता

नमः कैवल्यनाथायनिर्वाणसुखसंविदे।।११।।

नमः शान्ताय घोरायमूढाय गुणधर्मिणे।

निर्विशेषाय साम्यायनमो ज्ञानघनाय च।।१२।।

क्षेत्रज्ञायनमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे।

पुरुषायात्ममूलायमूलप्रकृतये नमः।।१३।।

सर्वेन्द्रियगुणद्रष्ट्रेसर्वप्रत्ययहेतवे।

असताच्छाययोक्तायसदाभासाय ते नमः।।१४।।

नमो नमस्तेऽखिलकारणायनिष्कारणायाद्भुतकारणाय।

सर्वागमाम्नायमहार्णवायनमोऽपवर्गाय परायणाय।।१५।।

गुणारणिच्छन्नचिदुष्मपायतत्क्षोभविस्फूर्जितमानसाय।

नैष्कर्म्यभावेनविवर्जितागमस्वयंप्रकाशाय नमस्करोमि।।१६।।

मादृक्प्रपन्नपशुपाशविमोक्षणायमुक्ताय भूरिकरुणाय नमोऽलयाय।

स्वांशेनसर्वतनुभृन्मनसि प्रतीतप्रत्यग्दृशे भगवते बृहते नमस्ते।।१७।।

आत्मात्मजाप्तगृहवित्तजनेषुसक्तैर्दुष्प्रापणाय गुणसंगविवर्जिताय।

मुक्तात्मभिः स्वहृदयेपरिभाविताय ज्ञानात्मने भगवते नम ईश्वराय।।१८।।

यंधर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति।

किं त्वाशिषो रात्यपिदेहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम्।।१९।।

एकान्तिनो यस्य न कञ्चनार्थंवाञ्छन्ति ये वै भगवत्प्रपन्नाः।

अत्यद्भुतं तच्चरितंसुमंगलं गायन्त आनन्दसमुद्रमग्नाः।।२०।।

तमक्षरं ब्रह्म परंपरेशमव्यक्तमाध्यात्मिकयोगगम्यम्।

अतीन्द्रियंसूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे।।२१।।

यस्य ब्रह्मादयो देवावेदा लोकाश्चराचराः।

नामरुपविभेदेन फलव्या चकलया कृताः।।२२।।

यथार्चिषोऽग्नेःसवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत् स्वरोचिषः।

तथा यतोऽयंगुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः।।२३।।

स वै नदेवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान् न जन्तुः।

नायं गुणः कर्म न सन्नचासन् निषेधशेषो जयतादशेषः।।२४।।

जिजीविषे नाहमिहामुयाकिमन्तर्बहिश्चावृतयेभयोन्या।

इच्छामि कालेन न यस्यविप्लवस्तस्यात्मलोकावरणस्य मोक्षम्।।२५।।

सोऽहं विश्वसृजंविश्वमविश्वं विश्ववेदसम्।

विश्वात्मानमजं ब्रह्मप्रणतोऽस्मि परं पदम्।।२६।।

योगरन्धितकर्माणो हृदियोगविभाविते।

योगिनो यं प्रपश्यन्तियोगेशं तं नतोऽस्म्यहम्।।२७।।

नमोनमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय।

प्रपन्नपालायदुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने।।२८।।

नायं वेद स्वमात्मानंयच्छक्त्याहंधिया हतम्।

तं दुरत्ययामाहात्म्यंभगवन्तमितोऽस्म्यहम्।।२९।।

श्री शुक उवाच

एवंगजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिंगभिदाभिमानाः।

नैतेयदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत्।।३०।।

तं तद्वदार्त्तमुपलभ्यजगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः।

छन्दोमयेन गरुडेनसमुह्यमानश्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः।।३१।।

सोऽन्तस्सरस्युरुबलेनगृहीत आर्त्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम्।

उत्क्षिप्य साम्बुजकरंगिरमाह कृच्छ्रान्नारायणाखिलगुरो भगवन् नमस्ते।।३२।।

तं वीक्ष्य पीडितमजःसहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार।

ग्राहाद् विपाटितमुखादरिणागजेन्द्रं सम्पश्यतां हरिमूमुचदुस्त्रियाणाम्।।३३।।