LAXMI SUKTAM


लक्ष्मी सूक्तम्



पद्मानने पद्मिनिपद्मपत्रे पद्ममप्रिये पदमदलायताक्षि ।

विश्वप्रियेविश्वमनोऽनुकूले त्वत्पाद्मं मयि सन्निधत्स्व ।। 1 ।।

पद्मानने पद्मउरुपद्माक्षी पदमसंभवे ।

तन्मे भजसि पद्माक्षीयेन सौख्यं लभाम्यहम् ।। 2 ।।

अश्वदायि गोदायि धनदायिमहाधने ।

धनं मे जुषतां देवीसर्वकामाश्च देहि मे ।। 3 ।।

पुत्रं पौत्रं धनंधान्यं हस्त्यश्वादि गवेरथम् ।

प्रजानां भवसि माताआयुष्मन्तं करोतु मे ।। 4 ।।

धनमग्निर्धनं वायुर्धनंसूर्यो धनं वसुः ।

धनमिन्द्रोवृहस्पतिर्वरुणो धनमस्तु मे ।। 5 ।।

वैनतेय सोमं पिब सोमंपिबतु वृत्रहा ।

सोमं धनस्य सोमिनोमह्यं ददातु सोमिनः ।। 6 ।।

न क्रोधो न च मात्सर्यन लोभो नाशुभामतिः।

भवन्ति कृतपुण्यानांभक्तानां श्री सूक्तजापिनाम् ।। 7 ।।

सरसिजनिलये सरोजहस्तेधवलतरांशुक गन्धमाल्यशोभे ।

भगवति हरिवल्लभेमनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ।। 8 ।।

विष्णुपत्नीं क्षमांदेवीं माधवीं माधवप्रियाम् ।

लक्ष्मीं प्रियसखींदेवी नमाम्यच्युतवल्लभाम् ।। 9 ।।

महालक्ष्म्यै च विद्महेविष्णुपत्न्यै ।

च धीमहि, तन्ने लक्ष्मीःप्रचोदयात् ।। 10 ।।

आनन्दः कर्दमःश्रीदश्चिक्लीत इति विश्रुताः।

ऋषयश्च श्रियः पुत्राःमयि श्रीर्देविदेवता मताः।। 11 ।।

ऋणरोगादिदारिद्रयपापक्षुदपमृत्यवः।

भयशोकमनस्ताप नश्यन्तुमम सर्वदा ।। 12 ।।



श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते ।

धान्यं धनं पशुबहुतपुत्रलाभं शतसंवत्सरं दीर्घमायुः।। 13 ।।



इति ऋग्वेदोक्तंलक्ष्मी सूक्तम् समाप्त ।।